स्वस्तिवाचनम् –
स्वस्तिवाचनको अर्थ उद्देश्य प्राप्ति तथा सबैको कल्याणको कामना गरेर आफ्ना कुलदेवा, इष्टदेवता, गणेश लगायत सबै देवताहरुलाई स्मरण गरेर कार्य सफलताको कामना गर्नु हो । यसका लागि हातमा फूल,अक्षता, दुबो र फल लिएर हात जोड्दै तल दिइएका वैदिक तथा पौराणिक मन्त्रहरुको वाचन गर्नु हो । कुनै पनि पूजा तथा विशेष कार्यको प्रारम्भमा नै स्वस्तिवाचन गर्ने गरिन्छ –
ॐ आनो भद्द्राः क्रतवो ॺन्तुव्विश्श्वतो दब्धासोऽअपरीता सऽउद्भिदः ।।
देवानो ॺथा सदमिद्द्वृधेऽअसन्नप्प्रायुवो रक्क्षितारो दिवेदिवे ।।१।।
देवानाम्भद्द्रा सुमतिर्ऋजूयतान्देवानाé रातिरभिनो निवर्तताम् ।।
देवानाé सक्ख्यमुपसे दिमाव्वयन्देवानऽआयुः प्प्रतिरन्तुजीवसे ।।२।।
तान्न्पूर्वया निविदाहूमहे व्वयम्भगम्मित्र मदितिन्दक्क्षमस्रिधम् ।।
अर्ॺमणंव्वरुण ᳯ सोममश्श्विना सरस्वतीनः सुभगा मयस्क्करत् ।।३।।
तन्नोव्वातो मयोभुव्वा तुभेषजन्तन्न्माता पृथिवी तत्पिताद्यौः ।।
तद्द्ग्रावाणः सोमसुतोमयो भुवस्त्तदश्श्विना श्रृणुतन्धिष्ण्ण्या ॺुवम् ।।४।।
तमीशानञ्जगतस्त्तस्त्थु षस्प्पतिन्धियञ्जिन्न्वमवसे हूमहेव्वयम् ।।
पूषानो ॺथााव्वेदसा मसद्द्वृधे रक्क्षितापा युरदब्धः स्वस्त्तये ।।५।।
स्वस्त्तिनऽइन्द्रो व्वृद्धश्श्रवाः स्वस्त्तिनः पूषाव्विश्श्ववेदाः ।।
स्वस्त्तिनस्त्ताक्क्ष्र्यो ऽअरिष्ट्टनेमिःस्वस्त्तिनो बृहस्प्पतिद्र्दधातु ।।६।।
पृषदश्श्वामरुतः पृश्न्निमातरःशुभं ॺावानो व्विदथेषुजग्मयः ।।
अग्ग्निजिह्व्वा मनवः सूरचक्क्षसो व्विश्श्वेनो देवाऽअवसा गमन्निह ।।७।।
भद्द्रङ्कण्र्णेभिः श्रृणुयामदेवा भद्द्रम्पश्श्ये माक्क्षभिर्ॺजत्राः ।।
स्थिरै रङ्गैस्त्तुष्टुवाé सस्त्तनू भिव्व्र्यशेमहिदेवहितं ॺदायुः ।।८।।
शतमिन्नुशरदोऽअन्तिदेवा ॺत्रानश्च्चक्क्रा जरसन्तनूनाम् ।।
पुत्रासो ॺत्र पितरो भवन्तिमानो मध्द्यारीरिषता युग्र्गन्तोः ।।९।।
अदितिद्र्याै रदितिरन्तरिक्क्षमदितिम्र्माता सपितासपुत्रः ।।
व्विश्श्वेदेवाऽअदितिः पञ्चजनाऽअदितिज्र्जा तमदितिज्र्जनित्वम् ।।१०।।
द्यौः शान्तिरन्तरिक्क्ष ᳯ शान्तिः पृथिवीशान्तिरापः शान्तिरोषधयः शान्तिः ।। व्वनस्प्पतयः शान्तिर्विश्वेदेवाः शान्तिर्बह्म्मशान्तिः सर्व ᳯ शान्तिः शान्तिरेवशान्तिः सामाशान्तिरेधि ।।११।।
ॺतोयतः समीहसे ततोनोऽअभयङ्कुरु ।। शन्नः कुरुप्प्रजाब्भ्यो भयन्नः पशुब्भ्यः ।।१२।।
।। सुशान्तिर्भवतु ।।
ॐ श्रीमन्महागणाधिपतये नमः । ॐ लक्ष्मीनारायणाभ्यां नमः । ॐ उमामहेश्वराभ्यां नमः । ॐ वाणीहिरण्यगर्भाभ्यां नमः । ॐ शचीपुरन्दराभ्यां नमः । ॐ मातृपितृचरणकमलेभ्यो नमः । ॐ इष्टदेवताभ्यो नमः । ॐ कुलदेवताभ्यो नमः । ॐ ग्रामदेवताभ्यो नमः । ॐ वास्तुदेवताभ्यो नमः । ॐ स्थानदेवताभ्यो नमः । ॐसर्वेभ्यो देवेभ्यो नमः । ॐ सर्वेभ्यो ब्राह्मणेभ्यो नमः ।
ॐ सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ।।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ।।
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।।
अभीप्सितार्थ सिद्ध्यर्थं पूजितो यः सुराऽसुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि ! नमोऽस्तु ते ।।
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः ।।
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते ! तेऽङ्घ्रियुगं स्मरामि ।।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ।।
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिधु्र्रवा नीतिर्मतिर्मम ।।
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।।
स्मृतेः सकलकल्याणं भाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ।।
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ।।
विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ।।
वव्रmतुण्ड महाकाय कोटिसूर्य समप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।।
विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् ।
सरस्वतीं प्रणम्यादौ सर्वकार्यार्थसिद्धये ।।
(हातको फूल गणेशमा चढाउने ।)